Vedsara Shiv Stotram Lyrics In Hindi | वेदसारशिवस्तोत्रम् | Gyansagar ( ज्ञानसागर )


Vedsara Shiv Stotram | वेदसारशिवस्तोत्रम् | Gyansagar ( ज्ञानसागर )


वेदसारशिवस्तोत्रम्प


शूनां पतिं पापनाशं परेशं,

गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।

जटाजूटमध्ये स्फुरद्गाङ्गवारिं,

महादेवमेकं स्मरामि स्मरारिम् ॥

महेशं सुरेशं सुरारातिनाशं,

विभुं विश्र्वनाथम् विभूत्यङ्गभूषम् ।

विरुपाक्षमिन्द्वर्कवह्निनेत्रं,

सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥


गिरीशं गणेशं गले नीलवर्णं,

गवेन्द्राधिरूढम् गुणातीतरूपम् ।

भवं भास्वरं भस्मना भूषिताङ्गम्,

भवानीकलत्रं भजे पञ्चवक्त्रम् ॥


शिवाकान्त शम्भो शशाङ्कार्धमौले,

महेशान शूलिन् जटाजूटधारिन् ।

त्वमेको जगद्व्यापको विश्र्वरूप:,

प्रसीद प्रसीद प्रभो पूर्णरूपम् ॥


परात्मानमेकं जगद्बीजमाद्यं,

निरीहं निराकारं ओम्कारवेद्यम् ।

यतो जायते पाल्यते येन विश्र्वम्,

तमीशं भजे लीयते यत्र विश्र्वम् ॥


न भूमिर्न चापो न वह्निर्न वायु,

र्न चाकाशमास्ते न तन्द्रा न निद्रा ।

न चोष्णं न शीतं न देशो न वेषो,

न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥


अजं शाश्र्वतम् कारणं कारणानां,

शिवं केवलं भासकं भासकानाम् ।

तुरीयं तमः पारमाद्यन्तहीनम्,

प्रपद्ये परम् पावनं द्वैतहीनम् ॥


नमस्ते नमस्ते विभो विश्र्वमूर्ते,

नमस्ते नमस्ते चिदानन्दमूर्ते ।

नमस्ते नमस्ते तपोयोगगम्य,

नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥


प्रभो शूलपाणे विभो,

विश्र्वनाथ-महादेव शम्भो महेश त्रिनेत्र ।

शिवाकन्त शान्त स्मरारे पुरारे,

त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥


शम्भो महेश करुणामय शूलपाणे,

गौरीपते पशुपते पशुपाशनाशिन् ।

काशीपते करुणया जगदेतदेक,

स्त्वं हंसि पासि विदधासि महेश्र्वरोऽसि ॥


त्वत्तो जगद्भवति देव भव स्मरारे,

त्वय्येव तिष्ठति जगन्मृड विश्र्वनाथ ।

त्वय्येव गच्छति लयं जगदेतदीश,

लिङ्गात्मके हर चराचरविश्र्वरूपिन् ॥


श्री शङ्कराचार्य कृतं!









Post a Comment

Previous Post Next Post