Shree Narsingh Kavach Lyrics In Hindi | Shree Narsingh Kavach Stotram | नृसिंहकवचस्तोत्रम्


 Shree Narsingh Kavach Lyrics In Hindi

Shree Narsingh Kavach Lyrics In Hindi |  Shree Narsingh Kavach Stotram  | नृसिंहकवचस्तोत्रम् | नरसिंह कवच 

नमस्कार पाठको और भक्त जनों ! ये रचना मेरी खुद की नहीं है! कुछ त्रुटी हो तो अवश्य मार्ग दर्शन करे ! भक्तो की डिमांड पर इसे प्रकाशित कर रहा हूँ ! आशा है आप इस स्तोत्रम का पाठ करके लाभ उठाएंगे !

सिंहकवचस्तोत्रम् ||नरसिंह कवच

नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा | सर्वरक्षकरं पुण्यं सर्वोपद्रवनाशनम् |१||

सर्व सम्पत्करं चैव स्वर्गमोक्षप्रदायकम् |ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ||२||

विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् | लक्ष्म्यालिङ्गितवामाङ्गम् विभूतिभिरुपाश्रितम् ||३||

चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् | सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ||४||

तप्त काञ्चनसंकाशं पीतनिर्मलवाससम् | इन्द्रादिसुरमौलिष्ठः स्फुरन्माणिक्यदीप्तिभिः ||५||

विरजितपदद्वन्द्वम् च शङ्खचक्रादिहेतिभिः | गरुत्मत्मा च विनयात् स्तूयमानम् मुदान्वितम् ||६||

स्व हृत्कमलसंवासं कृत्वा तु कवचं पठेत् | नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भवः ||७||

सर्वगेऽपि स्तम्भवासः फलं मे रक्षतु ध्वनिम् | नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ||८||

स्मृतं मे पातु नृहरिः मुनिवार्यस्तुतिप्रियः |नासं मे सिंहनाशस्तु मुखं लक्ष्मीमुखप्रियः ||९||

सर्व विद्याधिपः पातु नृसिंहो रसनं मम | वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः ||१०||

नृसिंहः पातु मे कण्ठं स्कन्धौ भूभृदनन्तकृत् | दिव्यास्त्रशोभितभुजः नृसिंहः पातु मे भुजौ ||११||

करौ मे देववरदो नृसिंहः पातु सर्वतः | हृदयं योगि साध्यश्च निवासं पातु मे हरिः ||१२||

मध्यं पातु हिरण्याक्ष वक्षःकुक्षिविदारणः | नाभिं मे पातु नृहरिः स्वनाभिब्रह्मसंस्तुतः ||१३||

ब्रह्माण्ड कोटयः कट्यां यस्यासौ पातु मे कटिम् | गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ||१४||

ऊरू मनोभवः पातु जानुनी नररूपदृक् | जङ्घे पातु धराभर हर्ता योऽसौ नृकेशरी ||१५||

सुर राज्यप्रदः पातु पादौ मे नृहरीश्वरः | सहस्रशीर्षापुरुषः पातु मे सर्वशस्तनुम् ||१६||

महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः | महाविष्णुर्दक्षिणे तु महाज्वलस्तु नैरृतः ||१७||

पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः | नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ||१८||

ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः | संसारभयतः पातु मृत्योर्मृत्युर्नृकेशई ||१९||

इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् | भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ||२०||

पुत्रवान् धनवान् लोके दीर्घायुरुपजायते | कामयते यं यं कामं तं तं प्राप्नोत्यसंशयम् ||२१||

सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् | भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् ||२२||

वृश्चिकोरगसम्भूत विषापहरणं परम् | ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ||२३||

भुजेवा तलपात्रे वा कवचं लिखितं शुभम् | करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ||२४||

देवासुर मनुष्येषु स्वं स्वमेव जयं लभेत् | एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ||२५||

सर्व मङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति |

द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् ||२६||

कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते | अनेन मन्त्रराजेन कृत्वा भस्माभिर्मन्त्रानाम् ||२७||

तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् | त्रिवारं जपमानस्तु दत्तं वार्याभिमन्त्र्य च ||२८||

प्रसयेद् यो नरो मन्त्रं नृसिंहध्यानमाचरेत् | तस्य रोगः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ||२९||

गर्जन्तं गार्जयन्तं निजभुजपतलं स्फोटयन्तं हतन्तं रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् |

क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं वीक्षन्तं पूर्णयन्तं करनिकरशतैर्दिव्यसिंहं नमामि ||३०||

|| इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्रीनृसिंहकवचं सम्पूर्णम् ||


सिंह लग्नफल



 Related Posts 



Post a Comment

Previous Post Next Post